|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.217. अध्यायः 217
(अथ विदुरागमनराज्यलाभपर्व ॥ 14 ॥)
Mahabharata - Adi Parva - Chapter Topics
चारद्वारा पाण्डवविवाहादिवृत्तान्तश्रवणेन अन्यैः राजभिः भीष्मधृतराष्ट्रादीनां धिक्कारः॥ 1 ॥
धार्तराष्ट्रैः पाण्डवान्प्रति मन्त्रालोचनं॥ 2 ॥ पाण्डवा हन्तव्या इति शकुनेरुक्तिः॥ 3 ॥
पाण्डवानां हन्तुमशक्यत्वात्तैः सह सन्धिः कर्तव्य इति सौमदत्तेरुक्तिः॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-217-0x(1208)(9446)
ततो राज्ञां चैरराप्तैः प्रवृत्तिरुपनीयत।
पाण्डवैरुपसंपन्ना द्रौपदी पतिभिः शुभा॥ 1-217-1(9447)
येन तद्धनुरादाय लक्ष्यं विद्धं महात्मना।
सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः॥ 1-217-2(9448)
यः शल्यं मद्रराजं वै प्रोत्क्षिप्यापातयद्बली।
त्रासयामास संक्रुद्धो वृक्षेण पुरुषान्रणे॥ 1-217-3(9449)
न चास्य संभ्रमः कश्चिदासीत्तत्र महात्मनः।
स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः॥ 1-217-4(9450)
`योऽसावत्यक्रमीद्युध्यन्युद्धे दुर्योधनं तथा।
स राजा पाण्डवश्रेष्ठः पुण्यभाग्बुद्धिवर्धनः॥ 1-217-5(9451)
दुर्योधनस्यावरजैर्यौ युध्येतां प्रतीपवत्।
तौ यमौ वृत्तसंपन्नौ संपन्नबलविक्रमौ॥' 1-217-6(9452)
ब्रह्मरूपधराञ्श्रुत्वा प्रशान्तान्पाण्डुनन्दनान्।
कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत॥ 1-217-7(9453)
`पौरा हि सर्वे राजन्याः समपद्यन्त विस्मिताः।'
सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता॥ 1-217-8(9454)
`सर्वभूमिपतीनां च राष्ट्राणां च यशस्विनी।'
पुनर्जातानिव च तांस्तेऽमन्यन्त नराधिपाः॥ 1-217-9(9455)
धिगकुर्वंस्तदा भीष्मं धृतराष्ट्रं च कौरवम्।
कर्मणाऽतिनृशंसेन पुरोचनकृतेन वै॥ 1-217-10(9456)
धार्मिकान्वृत्तसंपन्नान्मातुः प्रियहिते रतान्।
यदा तानीदृशान्पार्थानुत्सादयितुमिच्छति॥ 1-217-11(9457)
ततः स्वयंवरे वृत्ते धार्तराष्ट्राश्च भारत।
मन्त्रयन्ति ततः सर्वे कर्णसौबलदूषिताः॥ 1-217-12(9458)
शकुनिरुवाच। 1-217-13x(1209)
कश्चिच्छत्रुः कर्शनीयः पीडनीयस्तथाऽपरः।
उत्सादनीयाः कौन्तेयाः सर्वक्षत्रस्य मे मताः॥ 1-217-13(9459)
एवं पराजिताः सर्वे यदि यूयं गमिष्यथ।
अकृत्वा संविदं कांचिन्मनस्तप्स्यत्यसंशयम्॥ 1-217-14(9460)
अयं देशश्च कालश्च पाण्डवाहरणाय नः।
न चेदेवं करिष्यध्वं लोके हास्या भविष्यथ॥ 1-217-15(9461)
यमेते संश्रिता वस्तुं कामयन्ते च भूमिपम्।
सोऽल्पवीर्यबलो राजा द्रुपदो वै मतो मम॥ 1-217-16(9462)
यावदेतान्न जानन्ति जीवतो वृष्णिपुङ्गवाः।
चैद्यश्च पुरुषव्याघ्रः शिशुपालः प्रतापवान्॥ 1-217-17(9463)
एकीभावं गतो राज्ञा द्रुपदेन महात्मना।
दुराधर्षतरा राजन्भविष्यन्ति न संशयः॥ 1-217-18(9464)
यावच्चञ्चलतां सर्वे प्राप्नुवन्ति नराधिपाः।
तावदेव व्यवस्यामः पाण्डवानां वधं प्रति॥ 1-217-19(9465)
मुक्ता जतुगृहाद्भीमादाशीविषमुखादिव।
पुनस्ते यदि मुच्यन्ते महन्नो भयमागतम्॥ 1-217-20(9466)
तेषामिहोपयातानामेषां तु चिरवासिनाम्।
अन्तरे दुष्करं स्थातुं गजयोर्महतोरिव॥ 1-217-21(9467)
हनध्वं प्रगृहीतानि बलानि बलिनां वराः।
यावन्नः कुरुसेनायां पतन्ति पतगा इव॥ 1-217-22(9468)
तावत्सर्वाभिसारेण पुरमेतद्विहन्यताम्।
एतन्मम मतं चैव प्राप्तकालं नरर्षभ॥ 1-217-23(9469)
वैशम्पायन उवाच। 1-217-24x(1210)
शकुनेर्वचनं श्रुत्वा भाषमाणस्य दुर्मतेः।
सोमदत्तिरिदं वाक्यं जगाद परमं ततः॥ 1-217-24(9470)
प्रकृतीः सप्त वै ज्ञात्वा आत्मनश्च परस्य च।
तथा देशं च कालं च षड्विधान्स नयोद्गुणान्॥ 1-217-25(9471)
स्थानं वृद्धिं क्षयं चैव भूमिं मित्राणि विक्रमम्।
प्रसमीक्ष्याभियुञ्जीत परं व्यसनपीडितम्॥ 1-217-26(9472)
ततोऽहं पाण्डवान्मन्ये मित्रकोशसमन्वितान्।
बलस्थान्विक्रमस्थांश्च स्वकृतैः प्रकृतिप्रियान्॥ 1-217-27(9473)
वपुषा हि तु भूतानां नेत्राणि हृदयानि च।
श्रोत्रं मधुरया वाचा रमयत्यर्जुनो नृणाम्॥ 1-217-28(9474)
न तु केवलदैवेन प्रजा भावेन भेजिरे।
यद्बभूव मनःकान्तं कर्मणा स चकार तत्॥ 1-217-29(9475)
न ह्ययुक्तं न चासक्तं नानृतं न च विप्रियम्।
भाषितं चारुभाषस्य जज्ञे पार्थस्य भारती॥ 1-217-30(9476)
तानेवंगुणसंपन्नान्संपन्नान्राजलक्षणैः।
न तान्पश्यामि ये शक्ताः समुच्छेत्तुं यथा बलात्॥ 1-217-31(9477)
प्रभावशक्तिर्विपुला मन्त्रशक्तिश्च पुष्कला।
तथैवोत्साहशक्तिश्च पार्थेष्वप्यधितिष्ठति॥ 1-217-32(9478)
मौलमित्रबलानां च कालज्ञो वै युधिष्ठिरः।
साम्ना दानेन भेदेन दण्डेनेति युधिष्ठिरः॥ 1-217-33(9479)
अमित्रांश्च ततो जेतुनं न रोषेणेति मे मतिः।
परिक्रीय धनैः शत्रुं मित्राणि च बलानि च॥ 1-217-34(9480)
मूलं च सुकृतं कृत्वा भुङ्क्ते भूमिं च पाण्डवः।
अशक्यान्पाण्डवान्मन्ये देवैरपि सवासवैः॥ 1-217-35(9481)
येषामर्थे सदा युक्तौ कृष्णसंकर्षणावुभौ।
श्रेयश्च यदि मन्यद्वं मन्मतं यदि वा मतम्॥ 1-217-36(9482)
संविदं पाण्डवैः सर्वैः कृत्वा याम यथागतम्।
गोपुराट्टालकैरुच्चैरुपतल्पशतैरपि॥ 1-217-37(9483)
गुप्तं पुरवरश्रेष्ठमेतदद्भिश्च संवृतम्।
तृणधान्येन्धरसैस्तथा यन्त्रायुधौषधैः॥ 1-217-38(9484)
युक्तं बहुकवाटैश्च द्रव्यागारसुवेदिकैः।
भीमोच्छ्रितमहाचक्रं बृहदट्टालसंवृतम्॥ 1-217-39(9485)
दृढप्राकारनिर्यूहं शतघ्नीशतसंकुलम्।
ऐष्टको दारवो वप्रो मानुषश्चेति यः स्मृतः॥ 1-217-40(9486)
प्राकारकर्तृभिर्वीरैर्नृगर्भस्तत्र पूजितः।
तदेतन्नरगर्भेण पाण्डरेण विराजते॥ 1-217-41(9487)
सालेनानेकतालेन सर्वतः संवृतं पुरम्।
अनुरक्ताः प्रकृतयो द्रुपदस्य महात्मनः॥ 1-217-42(9488)
दानमानार्जिताः सर्वे बाह्याभ्यन्तरगाश्च ये।
प्रतिरुद्धानिमाञ्ज्ञात्वा राजभिर्भीमविक्रमैः॥ 1-217-43(9489)
उपयास्यन्ति दाशार्हाः समुदग्रोच्छ्रितायुधाः।
तस्मात्संन्धिं वयं कृत्वा धार्तराष्ट्रस्य पाण्डवैः॥ 1-217-44(9490)
स्वराष्ट्रमेव गच्छामो यद्याप्तं वचनं मम।
एतन्मम मतं सर्वैः क्रियतां यदि रोचते।
एतद्धि सुकृतं मन्ये क्षेमं चापि महीभिताम्॥ ॥ 1-217-45(9491)
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि सप्तदशाधिकद्विशततमोऽध्यायः॥ 217 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-217-29 भेजिर अर्जुनमिति शेषः॥ सप्तदशाधिकद्विशततमोऽध्यायः॥ 217 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|